|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.225. अध्यायः 225
Mahabharata - Adi Parva - Chapter Topics
धृतराष्ट्राज्ञया विदुरस्य द्रुपदनगरगमनम्॥ 1 ॥ तत्र श्रीकृष्णादीनां समीपे धृतराष्ट्रसन्देशकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
धृतराष्ट्र उवाच। 1-225-0x(1228)(9738)
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः।
`हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम्।'
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्॥ 1-225-1(9739)
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः॥ 1-225-2(9740)
यथैव मम पुत्राणामिदं राज्यं विधीयते।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः॥ 1-225-3(9741)
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्।
तया च देवरूपिण्या कृष्णया सह भारत॥ 1-225-4(9742)
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः॥ 1-225-5(9743)
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते॥ 1-225-6(9744)
`त्वमेव गत्वा विदुर तानिहानय मा चिरम्। 1-225-7(9745)
वैशम्पायन उवाच।
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम्।
आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्'॥ 1-225-7x(1229)
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत॥ 1-225-8(9746)
समुपादाय रत्नानि वसूनि विविधानि च।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह॥ 1-225-9(9747)
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्॥ 1-225-10(9748)
स चापि प्रतिजग्राह धर्मेण विदुरं ततः।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्॥ 1-225-11(9749)
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः॥ 1-225-12(9750)
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम्।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः॥ 1-225-13(9751)
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्।
प्रददौ चापि रत्नानि विविधानि वसूनि च॥ 1-225-14(9752)
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः॥ 1-225-15(9753)
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च॥ 1-225-16(9754)
विदुर उवाच। 1-225-17x(1230)
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः॥ 1-225-17(9755)
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप॥ 1-225-18(9756)
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति॥ 1-225-19(9757)
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति॥ 1-225-20(9758)
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान्।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः॥ 1-225-21(9759)
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह॥ 1-225-22(9760)
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्॥ 1-225-23(9761)
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा॥ 1-225-24(9762)
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः॥ 1-225-25(9763)
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम्।
गमनं सहदाराणामेतदत्र मतं मम॥ 1-225-26(9764)
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया॥ ॥ 1-225-27(9765)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः॥ 225 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|